Tuesday, May 8, 2012

JYOTISH YOGI KI PATHSHAALA (EVERY TUESDAY ON ASTROMAGAZINE.BLOGSPOT.COM)
Judging inauspicious time for spouse through Upagraha (in Hindi)

Monday, April 9, 2012

पितृ स्तुति (श्राद्ध पक्ष में)

अर्चितानाममूर्त्तानाम  पितृणां दीप्ततेजसाम् |
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ||
इन्द्रादीनां च नेतारो दक्षमारीचयोस्त्तथा |
सप्तर्षिणां तथान्येषां तान् नमस्यामि कामदान्||
मन्वादीनां मुनीन्द्राणां सूर्य चन्द्रमसोस्तथा |
तान् नमस्यामहं सर्वान् पितृनप्सूदधावपि ||
नक्षत्राणां ग्रहाणां च वायव्यग्न्योर्नभसस्तथा |
द्यावापृथिव्योश्च तथा नमस्यामि कृतांजलिः ||
देवर्षीणां जनितृश्र्च सर्वलोकनमस्कृतान् |
अक्षय्यस्य सदा दातृन् नमस्येऽहं कृतान्जलिः ||
प्रजापतेः कश्यपाय सोमाय वरुणाय च |
योगेश्वरेभ्यश्च सदा नमस्यामि कृतान्जलिः ||
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु |
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ||
सोमाधारान् पितृगणान् योगमूर्त्तिधरांस्तथा |
नमस्यामि तथा सोमं पितरं जगतामहम् ||
अग्निरुपांस्तथैवान्यान् नमस्यामि पितृनहम् |
अग्नीषोममयं विश्वं यत एतदशेषतः||
ये तु तेजसि  ये चैते सोमसूर्याग्निमूर्तयः |
जगत्स्वरुपिणश्चैव तथा ब्रह्मास्वरुपिणः ||
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः |
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः ||